श्रीरमणचत्वारिंशत् वन्दे श्रीरमणर्षेराचार्यस्य पदाब्जम् । यो मेऽदर्शयदीशं भान्तं ध्वान्तमतीत्य ॥ कथया निजया कलुषं हरता करुणानिधिनाऽरुणशैलजुषा । खगवाहनभाषिततत्त्वविदा वृषवाहनमौनरहस्यभृता ॥ १॥ गणराण्मुखसूरिसभागुरुणा गुणसञ्चयरत्नमहोदधिना । घनगूढसहस्रकरेण यथा तनुकञ्चुकगुप्तमहामहसा ॥ २॥ चतुरेण चलेन्द्रियनिग्रहणे पटुना परकीयगुणग्रहणे । छलवर्जितमौनसमाधिजुषा बलतर्जितभीकरकामरुषा ॥ ३॥ जठरं समये परिपूरयता कठिनं व्रतमद्रितटे चरता । झषकेतनशस्त्रदुरापहृदा कृषिमात्मविबोधविधौ दधता ॥ ४॥ भवभीकरवारिनिधिं तरता करतामरसेन सुपात्रवता । स्वदृशाऽधिकशीतलकान्तिभृता भयमङ्घ्रिसरोजजुषां हरता ॥ ५॥ नमतामतिभक्तिमतां निधिना घनतापविधूननसन्निधिना । यतिधर्मततिं परिपालयता परितश्च तमो विनिवारयता ॥ ६॥ फणिनायकवर्ण्यगुणौघभृता भणितीः प्रियसत्यहिता भणता । बहुमानवशादयता सुखितामवमानततेरविदूनवता ॥ ७॥ यतिनामधिपेन कुशाग्रलसन्मतिना धृतिना शितचित्तभुवा । लहरींप्रमदस्य सदावहता निहतान्तरशात्रवसंहतिना ॥ ८॥ भगवत्पदमन्यजनासुलभं स्वगुणैरधिगत्य परं जयता । ममतारहितेन हितेन सतां निहितेन गणप्रभुणा हृदये ॥ ९॥ धरणीधरजाङ्कमपि त्यजता धरणीतलवासितमोधुतये । नरवेषभृता नगरन्ध्रकृता रमणेन सनाथमिदं भुवनम् ॥ १०॥ परदेशिनेव धवलेन वाससः शकलेन वेष्टितकटीविशोभिना । वरदेशिकेन नरवेषधारिणा शिखिवाहनेन गुरुमज्जगद्भवेत् ॥ ११॥ अतीतगुणजालाय नैष्ठिकब्रह्मचारिणे । नमो मायामनुष्याय गुरवे तारकारये ॥ १२॥ यानायात्र न केकिनां कुलपतिः स्नानाय न स्वर्णदी पानाय क्षितिभृन्महेन्द्रदुहितुर्नस्तन्यदुग्धामृतम् । गानाय प्रमथेश्वरास्सवयसो नैवात्र वीणाभृतो वासं शोणगिरौ करोषि भगवन् क्रौञ्चाद्रिभेत्तः कुतः ॥ १३॥ एकं वक्त्रमुमाङ्कवासविरहः पाणौ न शक्त्यायुधं मर्त्यत्वं न पताकिनी च पृतना पार्श्वद्वये नाकिनाम् । वेषोऽलं पुनरेष मुग्धनयनप्रच्छादने भूजुषा- मन्तर्धानमुपैषि तारकरिपो क्व स्तन्यदायादतः ॥ १४॥ केचिद्योगविदां पुरःसर इति प्रज्ञानिबुद्ध्या परे साधुः कश्चिदितीतरे गुरुधिया केऽप्यङ्घ्रिपद्मं तव । सेवन्ते रमणाभिधानमनुजक्षेमाय जातक्षितौ द्वित्रास्त्वां गिरिजाङ्कपीठनिलयं जानन्ति देवं गुहम् ॥ १५॥ ओङ्कारार्थमुपादिशो भगवते वाणीमनोहारिणे तातायाप्युपदेष्टुमुद्यतमभूत् किञ्चित्त्वदीयं मुखम् । ज्येष्ठस्याद्य सहोदरस्य गुरुतां प्राप्तोऽसि धीगौरवात् सुब्रह्मण्य कनिष्ठतामपि गतः सर्वाधिकस्त्वं गुणैः ॥ १६॥ यत्पूर्वं श्रुतिपारदर्शिधिषणो द्वैपायनोऽध्यारुहत् पश्चाद्बोधकलाविधूततिमिरः शङ्कापहश्शङ्करः । तत्सम्प्रत्यखिलावनीतलजुषामाचार्यसिंहासनं देव त्वां प्रतिवीक्षते नरतनो गीर्वाणसेनापते ॥ १७॥ धर्मे नाशमुपागते त्रिभुवने पर्याकुले पापतः प्रज्ञाने परितो गिरां पथि मुधा सञ्चार्यमाणे जनैः । सद्भावे परमेश्वरस्य च पितुः सन्देहडोलां गते द्वीपः कैतवमर्त्यकेकितुरग त्वामन्तरा कस्सताम् ॥ १८॥ वैराग्यं तव वित्तमस्तु करुणां शक्नोषि हातुं कथं दूश्यस्तेऽस्तु समुद्यमः पितृपदध्यानं च किं तादृशम् । कामस्तेऽस्तु विगर्हितो विनमतां रक्षा च किं गर्हिता स्कन्दच्छद्ममनुष्य किं नु समयं कञ्चित्समुद्वीक्षसे ॥ १९॥ दूरं याहि कुवाद धर्मवृष ते नेतः परं पङ्गुता दुर्भ्रान्ते भुवनं जहीहि परितो वर्धस्व संसत्सताम् । सोदर्येण समन्वितो भुवमिमां प्राप्तो गुरुग्रामणीः शूरान्तःपुरनेत्रविभ्रमहरो देवो भवानीसुतः ॥ २०॥ जन्मस्थानमवाप्य गुप्तमहमो यो भेदमाधूतवान् भूतानां चरतां पृथग्विधधियामात्मैव यो भासते । देहं सर्वमिदं जगच्च विभवादाक्रम्य यः प्रोल्लस- त्येकस्तं गुरुमूर्तिमानमत रे लम्बोदरभ्रातरम् ॥ २१॥ अन्तर्यश्च बहिर्विधूततिमिरं ज्योतिर्मयं शाश्वतं स्थानं प्राप्य विराजते विनमतामज्ञानमुन्मूलयन् । पश्यन्विश्वमपीदमुल्लसति यो विश्वस्य पारे पर- स्तस्मै श्रीरमणाय लोकगुरवे शोकस्य हन्त्रे नमः ॥ २२॥ प्रसरतादितः शुभविलोकितम् । रमण ते सकृत्फलतु मे कृतम् ॥ २३॥ रमण जन्मिनामयि भवान् गुरुः । अभिद आशयस्तव महानुरुः ॥ २४॥ जगदहं परः स्फुरति मे त्रयम् । सदभिदं गिरा तव विसंशयम् ॥ २५॥ त्वदुपदेशतो गलति संविदा । मयि निरन्यया सदहमोर्भिदा ॥ २६॥ अहमि योऽन्तरस्तममलं हृदि । अनुभवेम भोस्तव कृपा यदि ॥ २७॥ न करुणा गुणस्तव विदां पते । हृदयतेजसः सहजभैवते ॥ २८॥ तव तनुर्ज्वलत्यनघ विद्युता । तव दृगातता लसति भास्वता ॥ २९॥ कबलितं मनस्तव विभो हृदा । त्वमसि सन्ततं विलसितो मुदा ॥ ३०॥ भुवनभूपतेर्भगवतः कृते । भवसि पाचको यमवतां पते ॥ ३१॥ नरपशूनिमानहमि ताडयन् । परशिवौदनं वितनुषे पचन् ॥ ३२॥ तिमिराणि न केवलं वचोभिः करुणापाङ्गविलोकितैश्च नॄणाम् । हृदये प्रसरन्ति मर्दयन्तं भगवन्तं रमणं गुरुं नमामि ॥ ३३॥ भवजलनिधिं गाहं गाहं चिरादलसालसान् पदजलरुहद्वन्द्वद्वीपं श्रितांस्तव सम्प्रति । रमणभगवन् कल्याणानां निकेतन पाहि नः सदय दयया सिक्तैर्भक्तानपाङ्गविलोकितैः ॥ ३४॥ यदि न जननी स्तन्यं दद्याच्छिशोर्बत का गतिः यदि पशुपतिः क्रोधं कुर्यात्पशोरवनं कुतः । यदि पदजुषामाचार्य त्वं निहंसि न संशयं भ्रमशतपराभूता एते तरन्तु भवं कथम् ॥ ३५॥ विशदहसिते पूर्णा शान्तिः सुधाकरसोदरे स्थिरपृथुलयोः पूर्णा शक्तिर्दृशोरतुलार्चिषोः । हृदयकमले नित्या निष्ठा बहिश्च सरत्प्रभे रमणभगवन् को वा मौनी समस्तव भूतले ॥ ३६॥ देवी शक्तिरियं दृशोः श्रितजनध्वान्तक्षयाधायिनी देवी श्रीरियमम्बुजाक्षमहिषी वक्त्रो सहस्रच्छदे । देवी ब्रह्मवधूरियं विजयते व्याहारगूढा परा विश्वाचार्य महानुभाव रमण त्वां स्तौतु कः प्राकृतः ॥ ३७॥ सोऽहं जातो रमणभगवन् पादयोस्ते दविष्ठो यद्यप्यस्मिन्महति समये शक्तिलास्ये प्रवृत्ते । सूर्यस्येव ज्वलितमहसो दूरगां नाथ शक्तिं विश्वस्याग्य्रां तव मम मनो वीतदुःखं तथापि ॥ ३८॥ तद्भागधेयमसमानमनेकमौनि- वासार्जितं क्षितिभृतः खलु लोहितस्य । अङ्गीचकार भगवान् रमणो महर्षि- रन्येषु सत्सु यदिमं बहुषु स्थलेषु ॥ ३९॥ शान्तिर्नितान्तमधिका परमास्य शक्ति- र्वैराग्यमद्भुततमं करुणा तु सान्द्रा । ज्ञानं निरस्तकुहनं मधुरं च वॄत्तं नॄणां निदर्शनमयं रमणो महर्षिः ॥ ४०॥ नारसिंहिर्गणपतिर्वासिष्ठो रमणं गुरुम् । चत्वारिंशन्मितैः पद्यैः स्कन्दांशं स्तुतवानृषिम् ॥