Guru-Gītam
/ docs / ganapati-muni / collected-works /
गुरु गीतम्
१ अव्यक्ताद्यत एतद् व्यक्तं जातमशेषम् |
यद् धत्ते तदजस्रं यत्रान्ते लयमेति ||
२ आधारे खलु यस्मिन् गोलानां सह लक्षैः |
ब्रह्माण्डं प्रतितिष्ठत्येतन्निस्तुलसत्वे ||
३ सूर्यादिग्रहभासां यन्मूलं घनतेजः |
यद् ब्रह्मादिसुराणां शक्त्यै शक्तिरुताहो ||
४ ज्ञात्वा तत्त्वमसङ्गा भासा यस्य रमन्ते |
यज्जालेन समस्ते द्वैतेक्षाऽल्पमतीनाम् ||
५ यद्ध्यानेन भवन्ति स्वात्मानन्दनिमग्नाः |
यन्निष्ठा खलु मुक्तिर्यच्छन्दोऽपि तदर्थः ||
६ तद् ब्रह्म प्रणवाख्यं cइत्ते ध्यानकृते मे |
अश्रान्तं रमणाख्यां बिभ्रद् भातु मदिष्टाम् ||
७ आधारे धृतमूलं हार्दाब्जे कृतवासम् |
शीर्षाब्जाय वहद्यत् पष्चादिन्द्रियशक्त् यै ||
८ दृष्ट्यां तत्र पराcयां यद्देहभ्रमकारि |
आवृत्तं तु पुनर्यत् स्वात्मैक्यानुभवाय ||
९ पश्यद्वा विषयौघं विश्रान्तं यदुताहो |
मुक्त्यै संस्थितमन्तर्वृत्यैक्यानुभवेन ||
१० आत्मज्योतिरिदं मे बिभ्राणं रमणाख्याम् |
अश्रान्तं स्फुरतात् तत् शुद्ध हार्दसरोजे ||
११ यद्दीपाद्रमणाख्याद् व्याप्तं गाणपतीषु |
वाणीभित्तिषु धत्ते गीताcइत्रविलासम् ||
१२ यद् हन्तिञ् छविजालै रध्यानां तिमिराणि |
तत्तत्त्वं स्फुरताद्वः तारधानसमाधौ ||
१३ यातायातबिहारै राधारेषु cअ शीर्षे |
संcआरं विदधानं किं cआशेषविसारि ||
१४ आलम्बेन विहीनं व्योमामं परिपूर्णम् |
निश्शब्दं गुरुरूपं तद् ब्रह्म स्फुरतान्मे ||
१५ ध्यानं भाति परोक्षं यत्तत्त्व श्रवणेन |
यत्साङ्गत्यविशेषो हेतुः स्यादपरोक्षे ||
१६ यccइन्ता स्थिरमुक्त्यै ब्रह्मैतद्रमणाख्यम् |
मामावृत्य समन्ता दानन्दे निदधातु ||
१७ तारानन्दनियुक्तः प्रीत्या तस्य मतेन |
आधाद्दीप्तगभीरं वासिष्ठो गुरुगीतम् ||
